सदाचार :
सताम् आचार: सदाचार : कथ्यते | "सत् + आचारः " अत्र "सत्" इत्यस्य अर्थः भवति - उत्तमः तथा च "आचार": इत्यस्य अर्थः भवति - व्यवहारः | इत्थं सदाचारस्य शाब्दिकः अर्थः जायते -- उत्तमः व्यवहारः |
निःस्वार्थ भावेन परेषां सहायता अपि सदाचारे समयाति | सज्जनाः यानि-यानि सत्कार्याणि कुर्वन्ति , तद् "सदाचार : " उच्यते |
वयं प्रातः काले उत्थाय मातपितरौ प्रणमामः | वृद्धानां सेवा , गुरूणाम् आज्ञापालनं , सत्यभाषणम् , सत्साहित्य अध्ययनम् इत्यादिनाम् गुणानां गणना सदाचारे भवति |
उक्तं च - अभिवादनशीलस्य , नित्यं वृद्धोपसेविन: |
चत्वारि तस्य वर्धन्ते , आयुर्विद्यायशोबालम् ||
सदाचार : उन्नत्या: द्वारं अस्ति | सदाचारयुक्तः जन: सर्वत्र आदरम् लभ्यते | सदाचार पालनेन भागवद्श्रीराम : मर्यादापुरुषोत्तम: अभूत्त् |
सदाचारेण मानवजीवनस्य सर्वविधा उन्नति : जायते |
उक्तं च - सर्वदा व्यवहारे स्यात्त औदार्यं सत्यता सदा |
ऋजुता मृदुता चापि कौतिल्यम् न कदाचन ||
अतः अस्माभि : सर्वतोभावेन जीवने सदाचार : करणीयः |
,,,,,,,,,,,,,,,,,,,,धन्यावाद : ,,,,,,,,,,,,,,,,,,,,,,,,,,,